If we are to preserve our culture and heritage, it is imperative that we acquaint our children with it. Teaching them Sanskrit is a necessary preliminary step towards it. Drshyakavya or drama is an entertaining way to teach language to children.

This drama is intended to be enacted by children of about 8-12 years of age. Through the well-known story of how Arjuna felled the wooden bird (Mahabharata, Adi Parva), it gently instructs the children about concentration. Traditionally, Sanskrit drama has a nandi, after which the sutradhara and the nati, his wife, introduce the drama. Because this is a children's drama, the introduction is done by two children. The other parts of traditional Sanskrit drama are retained, but are relevant to the present time and age.

Arjuna aiming at the wooden bird

पात्रधारिण:
सूत्रधारः
नटी (द्वावपि शालाविद्यार्थि-विद्यार्थिन्यौ)

द्रोणः
दुर्योधनः
युधिष्ठिरः
भीमः
अर्जुनः
अन्ये त्रिचतुरबालाः

(नान्दी)
यत्प्रसादाद्धि वैदुष्यं सिद्ध्यतेऽनलसां ध्रुवम् ।
सिद्धिबुद्धि समेतं तं नमामि गणनायकम् ॥
[नान्द्यन्ते प्रविशति सूत्रधारः]

सूत्रधारः - सखि इत आगम्यताम् ।
नटी (उपसृत्य) – वयस्य इयमस्मि । कथ्यताम् ।
सूत्रधारः – सखि अद्य कृत्रिमपत्रिभेदनं नाम नाटकं नाटयामः । तदस्मत्-परिषदः संतोषार्थं किमपि गीयताम् ।

नटी – अहो रमणीयता आषाढमासस्य । यतः

विकसितनयनाब्जाः बालकाः प्लावयन्तः
हिमकरसितपत्रैर्निर्मितं नावयूथम् ।
घनघनमिव भान्तं तम् बलाकाभिरामं
प्रमुदितहृदयास्ते पङ्किलं लोकयन्ति ॥

सूत्रधारः – सुष्ठु गीतं भवत्या । परन्तु मादृशानाम्

धिक्कष्टं प्रातरुत्थाने दिवास्वप्नं यदोत्थितम् ।
भृक्तं वाञ्छति जिह्वा मदाषाढं कष्टकारणम् ॥

सखि अद्यापि तर्जितोऽहं शालायां यत आचार्यदत्तसमस्या अपूर्णा एव मया प्रत्यर्पिता । कथम् अध्ययने श्रद्धा वर्धनीया। कथमेकाग्रता साधनीया। पठने त्वहं बहु कष्टमनुभवामि ।

नटी – वयस्य मा चिन्तय । महारथी गुरुवरश्च धनुर्धारी द्रोणः शिष्यैः सह इत एव आगच्छति । गुरोः बोधनं श्रुत्वा अस्माकमपि बुद्धिः सम्यक् निर्देशिता भवेत् । तदेहि गच्छावः ।
(इति निष्क्रान्तौ)

(ततः प्रविशति धनुर्धारी द्रोणः शिष्यैः सह)
द्रोणः – (पादं पादं पाठयति, शिष्याः तदेव अनुपठन्ति)

क्षणशः कणशश्चैव विद्यामर्थं च साधयेत् ।
क्षणत्यागे कुतो विद्या कणत्यागे कुतो धनम् ॥

प्रियशिष्याः यथेरितम् अस्मिन् श्लोके तथा समयस्य सदुपयोगः करणीयः ।
अद्य धनुर्विद्याभ्यासः करणीयः खलु । (सर्वान् विलोक्य) अद्य लक्ष्यभेदनं अभ्यासयामः । वत्स दुर्योधन । एहि । (दुर्योधनः उत्थाय द्रोणमुपसर्पति)
स्वहस्ते धनुरेतत् गृह्यताम् । तव लक्ष्योऽस्ति तत्र स्थितः कृत्रिमपक्षी । किं दृश्यते ।
दुर्योधनः – दृश्यते आचार्य ।
द्रोणः – किमन्यत् दृश्यते ।
दुर्योधनः – वृक्षः दृश्यते । वृक्षे मधुराणि फलानि दृश्यन्ते । वृक्षमवलम्ब्य वृद्धा लता दृश्यते । लतायां तुषारबिन्दुसदृशानि पुष्पाणि दृश्यन्ते ।
द्रोणः – किं मां द्रष्टुं शक्नोषि ।
दुर्योधनः (आचार्यमवलोक्य) – निष्चप्रचम् आचार्य ।
द्रोणः – त्वया लक्ष्यभेदनम् अशक्यम् । तद्गत्वा उपविश । वत्स युधिष्ठिर । एह्यत्र ।
युधिष्ठिरः (प्रणम्य) – अयमस्मि आचार्य ।
द्रोणः (धनुर्दत्वा) – किं लक्ष्यः दृश्यते ।
युधिष्ठिरः – दृश्यते आचार्य ।
द्रोणः – किं मां द्रष्टुं शक्नोषि ।
युधिष्ठिरः – (आचार्यम् अवलोक्य) आम् आचार्य ।
द्रोणः – किमन्यत् दृश्यते ।
युधिष्ठिरः – ममानुजाः, वृक्षाः, फलानि, लताः दृश्यन्ते ।
द्रोणः – त्वयापि लक्ष्यभेदनम् अशक्यम् । तद्गच्छ । वत्स भीम । एहि तावत् ।
भीमः – (प्रणम्य) अयमस्मि आचार्य ।
द्रोणः (धनुर्दत्वा) – किं लक्ष्यः दृश्यते ।
भीमः – दृश्यते आचार्य ।
द्रोणः – किम् माम् द्रष्टुम् शक्नोषि ।
भीमः – (आचार्यम् अवलोक्य) आम् आचार्य ।
द्रोणः – किमन्यत् दृश्यते ।
भीमः – ममानुजाः, वृक्षाः, फलानि, लताः दृश्यन्ते ।

मन्दानिलेन मकरन्दसुगन्धितेन
सम्प्रेष्य सन्दिशति मां विरमात्र चेति ।
आमन्त्रणं च करपल्लवचेष्टितेन
मित्रं ममाम्रतरुरार्य बुभुक्षितस्य ॥

द्रोणः – त्वयापि लक्ष्यभेदनम् अशक्यम् । तद्गच्छ । वत्स दुश्शासन । एहि तावत् ।

(सर्वे अन्ये छात्राः किमप्यनुक्त्वा केवलं नाटयन्ति । नेपथ्ये)

धार्तराष्ट्राः जिताः सर्वे पाण्डवानां चतुष्टयम् ।
एकाकी विजय: शिष्टः पश्यामोऽस्यापि दक्षताम् ॥

द्रोणः – वत्स अर्जुन । एहि ।
अर्जुनः (प्रणम्य) – अयमस्मि आचार्य ।
द्रोणः – लक्ष्यं पश्य । (अर्जुनः पश्यति) किं लक्ष्यं दृश्यते ।
अर्जुनः – अथ किम् ।
द्रोणः – किं मां द्रष्टुं शक्नोषि ।
अर्जुनः – न हि आचार्य ।
द्रोणः – किं वृक्षावलम्बिनी सुगन्धिपुष्पयुक्ता लता दृश्यते ।
अर्जुनः – न हि आचार्य ।
द्रोणः – किं वृक्षात् सद्य एव पतन्तीव भासन्तः पक्वानि फलानि दृश्यन्ते ।
अर्जुनः – न हि आचार्य ।
द्रोणः (सस्मितम्) – तर्हि मुञ्च शरम् ।
(अर्जुनः शरं मुञ्चति । लक्ष्यः पतति)
सर्वे – साधु साधु ।
द्रोणः – वत्स लक्ष्यभेदनं समीचीनतया कृतमद्य त्वया । तव एकाग्र-बुद्ध्या सर्वाः विद्याः करगता भवेयुः । मङ्गलमस्तु ते । (सर्वान् विलोक्य)
पञ्चाङ्गुल्योऽभिसङ्गत्य वस्तु कुर्वन्ति हस्तगम् ।
तथा पञ्चेन्द्रियैर्विद्या बुद्धिगम्या भविष्यति ॥

युष्माभिरपि यदि लक्षमेव लक्ष्यते तर्हि सर्वाः विद्याः नितरां सिद्ध्यन्ति ।

इयत्यभ्याशशीलेषु ममता विधियोषितः ।
यदागत्य स्वयम् देवी ह्येतेषां रसनास्थिता ॥
अभ्यासेनैव सिद्ध्यन्ते विद्याः सर्वाः सुदुर्लभाः ।
एकाग्रमतिमस्मभ्यं प्रददातु सरस्वती ॥